श्री दुर्गा सप्तशती के कुछ सिद्ध मंत्र

श्री दुर्गा सप्तशती के कुछ सिद्ध मंत्र

( १ ) सामूहिक कल्याणके लिये---

"देव्या यया ततमिदं जगदात्मशक्त्या, निश्शेषदेवगणशक्तिसमूहमूर्त्या । तामम्बिकामखिलदेवमहर्षिपूज्यां, भक्त्या नताः स्म विदधातु शुभानि सा नः ॥

(२ ) विश्वके अशुभ तथा भयका विनाश करनेके लिये --

"यस्याः प्रभावमतुलं भगवाननन्तो , ब्रह्मा हरश्च न हि वक्तुमलं बलं च । सा चण्डिकाखिलजगत्परिपालनाय, नाशाय चाशुभभयस्य मतिं करोतु ॥

( ३ ) विश्वकी रक्षाके लिये --

"या श्री : स्वयं सुकृतिनां भवनेष्वलक्ष्मी :, पापात्मनां कृतधियां हृदयेषु बुद्धिः । श्रद्धा सतां कुलजनप्रभवस्य लज्जा , तां त्वां नताः स्म परिपालय देवि विश्वम् ॥

( ४ ) विश्वके अभ्युदयके लिये--

" विश्वेश्वरि त्वं परिपासि विश्वं , विश्वात्मिका धारयसीति विश्वम् । विश्वेशवन्द्या भवती भवन्ति । विश्वाश्रया ये त्वयि भक्तिनम्राः ॥

( ५ ) विश्वव्यापी विपत्तियोंके नाशके लिये--

"देवि प्रपन्नार्तिहरे प्रसीद प्रसीद, मातर्जगतोऽखिलस्य । प्रसीद विश्वेश्वरि पाहि विश्वं , त्वमीश्वरी देवि चराचरस्य ॥

( ६ ) विश्वके पाप - ताप - निवारणके लिये--

"देवि प्रसीद परिपालय नोऽरिभीते- नित्यं, यथासुरवधादधुनैव सद्यः । पापानि सर्वजगतां प्रशमं नयाशु, उत्पातपाकजनितांश्च महोपसर्गान् ॥

( ७ ) विपत्ति - नाशके लिये---

शरणागतदीनार्तपरित्राणपरायणे । सर्वस्यातिहरे देवि नारायणि नमोऽस्तु ते ॥

(८) विपत्तिनाश और शुभकी प्राप्तिके लिये --

"करोतु सा नः शुभहेतुरीश्वरी, शुभानि भद्राण्यभिहन्तु चापदः ।

( ९ ) भय - नाशके लिये ---

1- "सर्वस्वरूपे सर्वेशे सर्वशक्तिसमन्विते । भयेभ्यस्त्राहि नो देवि दुर्गे देवि नमोऽस्तु ते ॥ 2- ने वदनं सौम्यं लोचनत्रयभूषितम् । पात नः सर्वभीतिभ्यः कात्यायनि नमोऽस्तु ते ॥ 3- ज्वालाकरालमत्युग्रमशेषासुरसूदनम् । त्रिशूलं पातु नो भीतेर्भद्रकालि नमोऽस्तु ते ॥

( १० ) पाप - नाशके लिये ---

"हिनस्ति दैत्यतेजांसि स्वनेनापूर्य या जगत् । सा घण्टा पातु नो देवि पापेभ्योऽन : सुतानिव ॥

( ११ ) रोग - नाशके लिये---

" रोगानशेषानपहंसि तुष्टा , रुष्टा तु कामान् सकलानभीष्टान् । त्वामाश्रितानां न विपन्नराणां, त्वामाश्रिता ह्याश्रयतां प्रयान्ति ॥

( १२ ) महामारी - नाशके लिये---

"जयन्ती मङ्गला काली भद्रकाली कपालिनी । दुर्गा क्षमा शिवा धात्री स्वाहा स्वधा नमोऽस्तु ते ॥

(१३)आरोग्य और सौभाग्यकी प्राप्तिके लिये -- "देहि सौभाग्यमारोग्यं देहि मे परमं सुखम् । रूपं देहि जयं देहि यशो देहि द्विषो जहि ॥

( १४ ) सुलक्षणा पत्नी की प्राप्तिके लिये---

" पत्नी मनोरमां देहि मनोवृत्तानुसारिणीम् । तारिणीं दुर्गसंसारसागरस्य कुलोद्भवाम् ॥

( १५ ) बाधा - शान्तिके लिये---

सर्वाबाधाप्रशमनं त्रैलोक्यस्याखिलेश्वरि । एवमेव त्वया कार्यमस्मद्वैरिविनाशनम् ॥

( १६ ) सर्वविध अभ्युदय के लिये---

" ते सम्मता जनपदेष धनानि तेषां , तेषां यशांसि न च सीदति धर्मवर्गः । धन्यास्त एव निभूतात्मजभृत्यदारा , येषां सदाभ्यदयदा भवती प्रसन्ना ॥

( १७ ) दारिद्यदुःखादिनाशके लिये---

" दुर्गे स्मृता हरसि भीतिमशेषजन्तोः , स्वस्थैः स्मृता मतिमतीव शुभां ददासि । दारिद्रयदुःखभयहारिणि का त्वदन्या , सर्वोपकारकरणाय सदाऽऽर्द्रचित्ता ॥

( १८ ) रक्षा पानेके लिये ---

"शूलेन पाहि नो देवि पाहि खड्गेन चाम्बिके । घण्टास्वनेन नः पाहि चापज्यानि : स्वनेन च ॥

( १९ ) समस्त विद्याओं की और समस्त स्त्रियों में मातृभाव की प्राप्तिके लिये ---

"विद्या : समस्तास्तव देवि भेदाः , स्त्रियः समस्ताः सकला जगत्स । त्वयैकया पूरितमम्बयैतत्, का ते स्तुतिः स्तव्यपरा परोक्तिः ॥

( २० ) सब प्रकारके कल्याणके लिये---

" सर्वमङ्गलमङ्गल्ये शिवे सर्वार्थसाधिके । शरण्ये त्र्यम्बके गौरि नारायणि नमोऽस्तु ते ॥

( २१ ) शक्ति - प्राप्तिके लिये--

" सृष्टिस्थितिविनाशानां शक्तिभूते सनातनि । गुणाश्रये गुणमये नारायणि नमोऽस्तु ते ॥

( २२ ) प्रसन्नताकी प्राप्तिके लिये--

" प्रणतानां प्रसीद त्वं देवि विश्वातिहारिणि । त्रैलोक्यवासिनामीड्ये लोकानां वरदा भव ॥

( २३ ) विविध उपद्रवोंसे बचनेके लिये---

" रक्षांसि यत्रोग्रविषाश्च नागा यत्रारयो दस्युबलानि यत्र । दावानलो यत्र तथाब्धिमध्ये तत्र स्थिता त्वं परिपासि विश्वम् ॥

( २४ ) बाधामुक्त होकर धन - पुत्रादिकी प्राप्तिके लिये---

" सर्वाबाधाविनिर्मुक्तो धनधान्यसुतान्वितः । मनुष्यो मत्प्रसादेन भविष्यति न संशयः ॥

( २५ ) भक्ति - मुक्तिकी प्राप्तिके लिये--

" विधेहि देवि कल्याणं विधेहि परमां श्रियम् । रूपं देहि जयं देहि यशो देहि द्विषो जहि ॥

( २६ ) पाप नाश तथा भक्ति की प्राप्ति के लिये --- "नतेभ्यः सर्वदा भक्त्या चण्डिके दुरितापहे । रूपं देहि जयं देहि यशो देहि द्विषो जहि ॥ ।

( २७ ) स्वर्ग और मोक्षकी प्राप्तिके लिये --- "सर्वभूता यदा देवी स्वर्गमुक्तिप्रदायिनी । त्वं स्तुता स्तुतये का वा भवन्तु परमोक्तयः ॥ ।

( २८ ) स्वर्ग और मुक्तिके लिये---

" सर्वस्य बुद्धिरूपेण जनस्य . हृदि संस्थिते । स्वर्गापवर्गदे देवि नारायणि नमोऽस्तु ते ॥

( २९ ) मोक्षकी प्राप्तिके लिये--

" त्वं वैष्णवी शक्तिरनन्तवीर्या , विश्वस्य बीजं परमासि माया । सम्मोहितं देवि समस्तमेतत् त्व वै प्रसन्ना भुवि मुक्तिहेतुः ॥

( ३० ) स्वप्नमें सिद्धि - असिद्धि जानने के लिए---

" दुर्गे देवि नमस्तभ्यं सर्वकामार्थसाधिके । मम सिद्धिमसिद्धिं वा स्वप्ने सर्वं प्रदर्शय ॥


 ~~~~~~~~~~~~~~~~~~

टिप्पणियाँ

इस ब्लॉग से लोकप्रिय पोस्ट

नवरात्रि पूजन 🌺

Navratri 1st Day - Maa Shailputri Ki Katha